RBSE class 10th Sanskrit half yearly paper solution PDF 2022-23// राजस्थान बोर्ड कक्षा 10 वीं संस्कृत अर्द्धवार्षिक पेपर
अर्द्ध वार्षिक परीक्षा, 2022-2023
कक्षा-10वी
विषय - संस्कृतम्
"समय: 3¼ ( सपाद होरात्रयम् ) पूर्णांक : 70
नोट : 1. सर्वे प्रश्नाः अनिवार्याः ।
2. प्रत्येकं प्रश्नस्योत्तरम् उत्तरपुस्तिकायामेवक त्रैव देयम्
1.अधोलिखितगद्यांशस्य सप्रसंगं हिन्दीभाषायाम् अनुवादं करोतु-
(अ) स्वशिष्यस्य गुण-गण-महिम्ना परमप्रीतः गुरु: कुशलदासः स्वजीवितकाले एव आश्रमस्य स्वामित्वं केशवानन्दाय दत्तवान् गुरुपीठे च तं प्रतिष्ठापितवान् । 'परोपकाराय सतां विभूतयः' इति धिया समृद्धमठस्य विभूतीनामुपयोगं विधाय उर्दू प्रधाने फजिल्का-अबोहर-क्षेत्रे राष्ट्रभाषायाः प्रचारकार्यमारब्धम् । आदौ तावद् आश्रमे एव 'वेदान्तपुष्पवाटिका' इत्याख्य- सार्वजनिक- हिन्दी- पुस्तकालयस्य वाचनालयस्य च प्रारम्भः कृतः ।
अथवा
(ब) तस्मिन् काले उत्तरभारते मुगलवंशीयानां शासकानां शासनम् आसीत् । राजानः तत्सेवामेव स्वकर्त्तव्यं मान्यमानाः देशरक्षाकर्तव्याद् सर्वथा विमुखाः आसन् । मुगलशासकस्य सहाय्यं विधाय आत्मगौरवंमन्यन्ते स्म । शत्रुभिः सह दीघ्रकालीनानां युद्धानां कारणेन मेवाड़राज्य स्थितिः समीचीना न आसीत् । यद्यपि प्रतापस्य पिता महाराणा उदयसिंहः प्रतापी राजा आसीत्, किन्तु परिस्थितिवशात् चित्तौडादिस्थानानि आक्रान्तृभिरधिगृहीतानि । अधोलिखितस्य पद्यांशस्य सप्रसंगं हिन्दीभाषायाम् अनुवादं करोतु-
2.(अ) खलः सर्पपमात्राणि परच्छिद्राणि पश्यति । आत्मनो विल्वमात्राणि पश्यन्नपि न पश्यति ॥
अथवा
(ब) मानं मनीषिता मैत्री मरुदुष्णं मरीचिका । मृगाः मूर्ध्नि मनुष्याणाम् उष्णीषं प्रमुखम्मरौ ॥
3.अधोलिखितस्य पद्यांशस्य संस्कृतभाषायां व्याख्यां करोतु-
(अ) दुःखसागरे तरणीयम्, कष्टपर्वते चरणीयम् विपत्तिविपिने भ्रमणीयम्, लोकहितं मम करणीयम् ॥
अथवा
(ब) धन-धान्य प्रयोगेषु विद्यायाः संग्रहेषु च । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥
4. अधोलिखितस्य नाट्यांशस्य सप्रसंगं संस्कृतव्याख्यां करोतु-
(अ) भिल्ला - हा! अस्माकम् अपि जीवनेन को लाभः ? यदि ययं देशरक्षायै
प्रतापः - न किम् अपि कर्तुं समर्थाः, तदा मरणम् एव अस्माकं श्रेयस्करम् । हा धिक्। भवन्तः सर्वे इदं किं कुर्वन्ति ? आत्महननं महत्त्वा वर्तते । स्थीयतां स्थीयताम् कष्टानि सोया वीरगत्या मरणं कल्याणकरम् कथ्यते ।
अथवा
(ब) तापसी - सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व !
बाल - (सदृष्टिक्षेपम्) कुत्र वा मम माता ?
उभे नाम सादृश्येन वञ्चितो मातृवत्सलः ।
द्वितीया वत्स, अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।
राजा - (आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या । सन्ति पुनर्नामधेय सादृश्यानि ।
5.अधोलिखितप्रश्नेषु केषांचन षट् प्रश्नानामुत्तराणि संस्कृतमाध्यमेन लिखतु-
(क) श्रीवरदा का वर्तते ?
(ख) जाट-प्लेटो कः कथ्यते ?
(ग) कीदृशैः तृणै: मत्तदन्तिनः बध्यन्ते ?
(घ) कं वलवन्तं न बाधते शीतम् ?
(ङ) कस्य विद्या विवादाय भवति ?--
(च) "जय जय हे भगवति सुरभारति" इत्यस्याः गीते रचयिता कोऽस्ति ?
(छ) वेदा: कति सन्ति?
(ज) गङ्गदत्तस्य परिभवः कैः कृतः ?
6. रेखांकितपदमाधृत्य प्रश्ननिर्माणं करोतु-
(क) व्रतदानयज्ञैः देवाः प्रसन्नाः ।
(ख) खलस्य शक्तिः परेषां परिपीडनाय ।
(ग) सरस्वती त्रिभुवनधन्या वर्तते ।
7.प्रश्नपत्रादतिरिच्य स्वपाठ्यपुस्तकात् श्लोकद्वयं लिखतु ।
8.अधोलिखितगद्यांशं पठित्वा एतदाधारितप्रश्नानाम् उत्तराणि यथानिर्देशं लिखतु- 6
डॉ. भीमराव आम्बेडकर: संस्कृतं पठितुम् इष्टवान् आसीत्, परन्तु सः अस्पृश्यः इति कारणतः संस्कृतज्ञ: आम्बेडकरं संस्कृतं पाठयितुं निराकृतवान्- इति विषय: तु आम्बेडकर - महोदयस्य जीवनसम्बन्धिपुस्तकेषु लिखितः अस्ति सः विषयः तु प्रचारे अपि अस्ति ।' भारतस्य राजभाषा संस्कृ भवेत्' इति संविधानसभायां संशोधन- प्रस्तावः आनीतः आसीत्, यस्य प्रस्तावस्य हस्ताक्षर कर्तृषु प्रस्तावोपस्थापकेषु च डॉ. आम्बेडकरः अपि अन्यतमः आसीत् । अयं विषयः अपि कतिपयवर्षेभ्यः पूर्व ज्ञातः आसीत्। परम् इदानीं कश्चन नूतनः विषयः प्रकाशम् आगतः अस्ति। नवप्राप्त प्रमाणैः ज्ञायते यत् डॉ. आम्बेडकरः न केवलं संस्कृतस्य राजभाषात्वं समर्थितवान्, न केवलं सः संस्कृतं जानाति स्म, अपितु सः संस्कृतेन भाषते स्म इति यतः
संविधानसभायां यदा राजभाषा सम्बन्धे चर्चा प्रवर्तते स्म तदा डॉ. आम्बेडकर: पण्डितलक्ष्मीकान्त मैत्रेण सह संस्कृतेन वार्तालापं कृतवान् तत्सम्बन्धे तत्कालीनेषु
वार्तापत्रेषु प्रमुखतया वार्ताः प्रकाशिताः आसन् ।
(1) अस्य गद्यांशस्य समुचितं शीषकं लिखत ।
(2) डॉ. भीमराव आम्बेडकर: कां भाषां भारतस्य राजभाषां कर्तुम् इष्टवान् ?
(3) डॉ. आम्बेडकर : संविधान सभायां केन सह संस्कृतेन वार्तालापं कृतवान् ?
(4) 'वार्तापत्रेषु वार्ता : प्रकाशिताः आसन्' इत्यस्मिन् वाक्ये क्रियापदस्य निर्देश: करणीय ?
(5) डॉ. आम्बेडकर: संस्कृतेन भाषते स्म अत्र रेखांकितस्य संज्ञापदस्य स्थाने सर्वनामपदस्य प्रयोगः कर्त्तव्यः ।
(6) ‘पुरातन:' इति पदस्य विलोमपदं गद्यांशात् चित्वा लिखन्तु ।
(9)अधोलिखितपदानां सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखत- (i) वागीश्वरी (ii) कुतोऽत्र (iii) निश्चल: (iv) पावक:
10. अधोलिखितपदेषु समासविग्रहं वा समासं कृत्वा समासस्य नामापि लिखत- 3
(i) शस्त्रं च शास्त्रं च (ii) घनश्याम (iii) यथाशक्तिम्
11. अधोलिखितेषु रेखांकितपदेषु विभक्तिं तत् कारणं च लिखत- 3.
(i) ग्रामं परितः क्षेत्राणि सन्ति
(ii) कविषु कालिदासः श्रेष्ठः ।
(iii) सीता गीतया सह पठति ।
12. कोष्ठकेषु प्रदत्त प्रकृतिप्रत्ययानुसारं शब्दनिर्माणं कृत्वा रिक्तस्थानानि पूरयित्वा लिखतु-
(क) दरिद्रेभ्यः अन्नं ददाति। (दातृ ङीप् )
(ख) अहं न खादामि। (गम्+शतृ)
13. मूंजूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखतु- इति, कदापि, अधुना
(i) सः पराजयं न स्वीकृतवान् ।
(ii) भारतवासिनः अपि तस्य शौर्यगाथां गायन्ति ।
(iii) केशवानन्दस्य नाम 'बीरमा' आसीत् ।
14. घटिका चित्रसहायतया अंकानां स्थाने संस्कृतशब्देषु समयलेखनं करोतु-
(i) जनक: वादने जयपुरं गमिष्यति
(ii) स वादने विद्यालयं गच्छति ।
15. अधोलिखितवाक्यानां वाच्यपरिवर्तनं कृत्वा लिखतु- (i) अहं नाटकं पश्यामि ।
(ii) तेन पत्रं पठ्यते ।
16. अधोलिखितवाक्येषु रेखांकितपदानि, शुद्धं कृत्वा पुनः लिखत-2
(i) रामस्य सह सीता वनमगच्छत् ।
(ii) हिमालयेन गंगा निर्गच्छति ।
17. स्वं योगेशकुमार : मत्वा राजकीय उच्च माध्यमिक विद्यालय, सुमेरपुरस्य प्रधानाचार्याय स्थानान्तरण प्रमाणपत्र प्राप्त्यर्थम् प्रार्थनापत्रं लिखतु । 4
18. मञ्जूषातः, उचितानि पदानि चित्वा द्वयोः सख्योः संवादं पूरयत- 5 (स्थानान्तरणवशात्, कक्षायाम्, तव, विद्यालयात्, वर्सेसि, आगता, अहं, नवमकक्षा)
मेधा - स्वागतं ते अस्यां……
सुधा - धन्यवादाः ।
मेधा - प्रियसखि ! किं……नाम ।
सुधा - मम नाम सुधा अस्ति।
मेधा सुधे ! कस्मात्……आगता असि ।
सुधा - अहं जयपुरनगरस्य केन्द्रीय विद्यालयात् आगता अस्मि ।
अहमपि............... पर्यन्त तत्रैव अपठम् । पितुः ......
19.अधोलिखितपड्वाक्येषु केषांचन चतुर्णां वाक्यानां संस्कृतभाषायाम् अनुवादं कुरुत - 4
(i) पेड़ से पत्ता गिरता है।
(ii) छात्रों में सुरेश चतुर है।
(iii) वह कलम से लिखता है।
(iv) तुम कन्न खेलते हो?
(iv) हमें संस्कृत पढ़ना चाहिए।
(vi) हम सब विद्यालय जाएंगे।
20. मञ्जूषायां प्रदत्तशब्दानां सहायतया 'अस्माकं जीवने वृक्षाणाम् उपयोगिता' इति विषये पट्वाक्यानि लिखतु- 3
( अस्मिन् युगे, उपयोगिता, प्राणवायुं, पर्यावरणं, दृश्यते, फलानि, प्राप्नुमः, छाया, काष्ठानि, खगाः, वृक्षाणां कर्तनं नैव ) अधोलिखितानि वाक्यानि क्रमरहितानि सन्ति । यथाक्रमं संयोज्य पुनः लिखत । 5
(i) मूषकः परिश्रमेण जालम् अकृन्तत्
(ii) एकदा सः जाले बद्धः ।
(iii) सिंह: जालात्-मुक्तः भूत्वा मूषकं प्रशंसन् गतवान् ।
(iv) एकस्मिन् वने एकः सिंहः वसति स्म। 1
(v) सः सम्पूर्ण प्रयासम् अकरोत् परं बन्धनात् न मुक्तः ।
(vi) तदा तस्य स्वरं श्रुत्वा एकः मूषकः तत्र आगच्छत् ।
एक टिप्पणी भेजें