अहिंसा परमोधर्मः पर निबंध संस्कृत में || ahinsa parmo Dharm essay in Sanskrit
येन कर्मणा कस्यापि जीवस्य पीडनं भवति सा हिंसा कथ्यते।अतः ननसा, वाचा, कर्मणा कस्यापि जीवस्य न पीडनम् सर्वेषु करुणाभावः एव अहिंसा भवति । अहिंसया भयस्य वैरस्य वा विनाशः भवति परस्परं च स्नेहभावः वर्द्धते ।
अतः एव सर्वेषु धर्मेषु अहिंसाया मूर्धन्यम् स्थानम् अस्ति । अहिंसा परमोधर्मः इति च घोषितम् अस्ति ।
सर्वेषां महापुरुषाणां प्रधानः गुणः अहिंसा एव आसीत् । अस्माकं राष्ट्रपिता महात्मा गांधी तु अहिंसाया परम उपासकः आसीत् । सः जीवनपर्यन्तम् अहिंसायाः विविधान् प्रयोगान् अकरोत् तथा अहिंसात्मकेन आन्दोलनेन देशं स्वतंत्रम् अकारयत् ।
प्रायः जीवानां वध: 'हिंसा' इति उच्चते। परं मनसा वाचा कर्मणा वा कस्यापि जीवस्य परिपीडनम् 'हिंसा' इति कथ्यते। एवं हिंसा त्रिविधा भवति - मानसिकी हिंसा, वाचिकी हिंसा,कायिकी हिंसा च। तत्र सर्वप्रकारक हिंसानाम् त्याग एवं अहिंसा भवति।।
सर्वेषु धर्मेषु अहिसायाः प्राधान्यं वर्तते। संसारस्य सर्वाचाये: अहिंसाया गौरवं तारस्वरेण गीयते। अस्मिन् संसारे एतादशः कोडापि धर्म प्रवर्तको धर्म प्रचारको वा न वर्तते यः अहिंसाया महती आवश्यकतां न स्वीकुरुते। भारतवर्षे अहिंसाया प्रतिष्ठा अति प्राचीना अस्ति। भारतीय संस्कृतिः सर्वदेव अहिंसाप्राधान: आसीत्। अत्र अनेके महापुरुषाः अभवन् ये स्वजीवने अहिंसावतं गृहीत्वा व लोक पूज्यताम् अवापुः। मनुना चातुर्वण्यार्थम् अहिसायाः महत्वं निरुप्यतेः -
अहिंसा सत्यमस्तेयं शौचमिन्द्रिय निग्रह
एतं सामाजिक धर्म चातुर्वण्येड ब्रवी न्मनुः
विश्वामित्रं प्रति वशिष्ठस्य अहिंसाश्रयणम् सर्वजन प्रसिद्ध वर्तते। तस्मात विश्वामित्रापेक्षया वशिष्ठ श्रेष्ठ: अभवत्। महात्मा बुद्ध: अहिंसाया: श्रेष्ठ: प्रचारक आसीत्।अतएव अद्यापि न केवलं अस्माकं देशे एवं अपितु विदेशेषु अपि अहिसायाः धारा प्रवति। कलिंउ संग्रामें रक्तपातं दृष्टा अशोक नृपतेः हदये। अहिंसाया: संचारः अभवत्। अहिंसा बलेन एवं सम्राट् अशोक: 'महान' इति पदं लब्धवान्।
जैन धर्म अपि अहिंसाया: अनिवार्यत्वम् उपदिश्यते। अहिंसा बलेनैव महात्मा गांधी 'महात्मा' 'बापू' च पदेन संपूर्ण संसारे स्वातन्त्रय संग्राम विजया बभूव। अहिंसा शस्त्रेण भीताः गौराङ्गा शासका: भारतभूमि विहाय पलायिता:।
विश्वे सर्वे प्राणिनः सुखम् वाञ्छन्ति। न कोडपि स्व विनाशं इच्छति। यदि एवमेव पशु-पक्षिणाम् विषये अस्माकं चिन्तनम् स्यात् तर्हि न कस्यचिद हुननम् कोडपि करिष्यति। परस्य पौड़ा स्व पीड़ा एवं अनुभूयते धामिकैः उत्तम् चः -
श्रूयताम् धर्म सर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषाम् न समाचरेत्।।
अहिंसया सर्वत्र शान्तिः प्रसरति शान्त्या च सर्वे जनाः सुखिनः भवन्ति । येन जीवन स्वर्गतुल्यं भवति । अतः सर्वै: अहिंसायाः पालनम् अवश्यं करणीयम् ।
1.परेषां हिंसनं पीडनम् एव हिंसा भवति, एतद् विपरीता भावना अहिंसा भवति।
2. मनसा वाचा कर्मणा कथमपि कस्यचित् कष्टं न देयम् इति एव अहिंसा।
3. मनुना निर्दिष्टेषु दशसु धर्मलक्षणेषु अहिंसा एव प्रथमः धर्मः अस्ति।
4. अहिंसापालक: कारुणिका: दयावन्तश्च भवन्ति।
5. अहिंसया एव आत्मा सुखम् अनुभवति मनश्च परां शांति लभते।
6. अहिंसाबलेन शत्रवोडपि मित्राणि भवन्ति।
7. सर्वाणि कार्याणि अहिंसया एव सिध्यन्ति अतएव मुनिभिः 'अहिंसा परमो धर्म:' इति स्वीकृतः।
8. जैनबौद्धधर्मी अहिंसाधर्मे परमौ निष्ठावन्तौ।
9. महात्मागान्धिमहोदय: अहिंसाधर्मस्य परमोपासक: आसीत्।
10. स: अहिंसाशस्त्रेण भारतं स्वतंत्रमकरोत्।
इसे भी पढ़ें 👇👇👇👇
संस्कृत भाषा के महत्व पर निबंध
अहिंसा परमो धर्म पर संस्कृत में निबंध
एक टिप्पणी भेजें